त्वमित्यादि । परिणताः परिणामिनोऽर्कादयस्त्वयि त्वद्विषय एवं परिच्छिन्नां गिरं वाणीं बिभ्रति धारयन्ति । इह जगति यत्तत्त्वं वस्तु त्वं न भवसि तत्तत्त्वं वयं पुनर्न विद्मो न जानीमः । सर्वात्मकत्वाद्भवस्य । परिच्छिन्नवाणीमाह—त्वमादित्यस्त्वं चन्द्रस्त्वं वायुस्त्वमग्निस्त्वं जलं त्वमाकाशम् । उ हे । त्वं भूमिस्त्वमात्मा चासीति । ‘उ संबोधनशेषोक्त्योः’ इति मेदिनीकारः ॥ अत्र प्रथमार्धे त्वमितिशब्दार्थयोरावृत्तिरसीतिक्रियया दीपिता, तृतीयपादे त्वयीतिरूपान्तरेण विषयत्वेन युष्मदर्थस्त्वमित्येवंरूपो धारणक्रियान्वयी । अन्त्यपादेऽपि त्वमित्येव भवनान्वयीत्यावृत्तीनामावृत्तिरावलीति ॥