इमिणेत्यादि । “अनया शरदा शशी शशिनापि निशा निशया कुमुदवनम् । कुमुदवनेन च पुलिनं पुलिनेन च शोभते हंसकुलम् ॥” इह सर्वत्र शोभत इति क्रियान्वयः । अत्रान्योन्यग्रथनया मालाक्रमस्तेन च प्रधानक्रियायां दीपनम् । परस्परग्रथनया रसनामालयोर्भेदं पृच्छति—क इति । उत्तरम् । पूर्वत्रेति । रसनायां सर्वत्र वृत्त्या छन्दसा छिन्नं भिन्नीभूतं पदं पदेन युज्यते । मालायां तु प्रत्येकमेव पदं पदेन युज्यत इत्यनयोर्भेद इत्यर्थ ॥