अत्र ‘संग्रामाङ्गणमागतेन भवता चापे समारोपिते’ इति भावलक्षणाक्षिप्तस्य भावविशेषस्य द्वितीयपादे कारकवीप्सया यत् संक्षेपेणाभिधानं तदेतच्चक्रवालाद्रिणेव मालादीपकेन विस्तारवता वेष्टितमिदं चक्रवालं नाम दीपकस्य भेदः ॥