तस्या इत्यादि । तस्या आलापस्मितदृष्टिभिर्वचनेषद्धासालोकनैर्वल्लकीकुन्दस्रगिन्दीवरसंपदो वीणाकुन्दमालानीलाब्जसंपत्तयो जीयन्ते । कीदृशीभिः । उपचितविलासाभिः । अत्र शब्दस्य पदरूपस्य परिपाट्या भणनमिति पदघटितः शाब्दक्रमः ॥