हस्ते इत्यादि । यत्र पुर्यां वधूनां हस्ते लीलाकमलम्, अलकं चूर्णकुन्तलं बालकुन्देनानुविद्धं संबद्धम् । लोध्रप्रसवस्य लोध्रपुष्पस्य रजसा धूल्या मुखश्रीः पाण्डुतां श्वेततां नीता । चूडापाशे प्रशस्तशिखायां नूतनकुरबकपुष्पम्, चारु मनोज्ञं शिरीषपुष्पं कर्णे, सीमन्ते नीपं कदम्बपुष्पम् । त्वदुपगमस्त्वदीयागमनं तस्माज्जातम् । इदं सर्वपुष्पविशेषणम् । ‘चूडा शिखायां बाहुभूषणे’ इति मेदिनीकारः। शिखापरस्यापि पाशपदस्य केशपरत्वेमेव । अत्र शरदादिकालक्रमेणार्थानां क्रमादार्थक्रमः ॥