पायादित्यादि । स देवो वो युष्मान् पायात् रक्षतात् । कीदृशः । रचिता त्रिविक्रमस्य वामनस्य तनुः शरीरं येन सः । दैत्यनाशकश्च । यस्वाकस्माद्वर्धमानशरीरस्य सूर्यमण्डलं मौलो रत्नरुचि जातम्, क्रमात् श्रुतौ कर्णे शोभमानताटङ्ककान्ति जातम्, वक्षसि कौस्तुभदीप्ति जातम्, उदरै नाभिपद्मोपमं जातम् । ‘कौस्तुभो मणिः’ इत्यमरः । इह हरेर्नाभिपद्मस्य श्वेततया रूपेण न साम्यं किं त्वाकारादिनेत्यवधेयम् । ‘वैकुण्ठो विष्टरश्रवाः’ इत्यमरः । अत्र मौलिप्रभृतिदेशपुरस्कारेणार्थक्रमः ॥