पङ्क इत्यादि । “पङ्कजानि पङ्क न्यस्तानि कुवलयानि क्षिप्तानि ह्रदे कृत्तौ बिम्बं विनिकीर्णं निरस्तश्चन्द्रो नभसि । करनयनाधरवदनैस्तस्यां लीलावत्यां निजसृष्टिरप्युत्सृष्टेव प्रजापतिना ॥” इह प्रजापतिना ब्रह्माणा तस्यां लीलावत्यां नायि-534 कायाँ हस्तनेत्राधरमुखैर्निजसृष्टिरप्युत्सृष्टेव दत्तेव । पङ्कजादीनामपासनात् । तदेवाह—पङ्कजानि पद्मे कर्दमे न्यस्तानि । नीलाब्जानि ह्रदेऽगाधजले क्षिप्तानि । वृत्तौ वेष्टने बिम्बफलं न्यस्तम्, चन्द्रो गगने क्षिप्त इति । ‘स्रष्टा प्रजापतिर्वेधाः’ इत्यमरः । अत्र पङ्कजादीनां करादिना जये शाब्दक्रमः प्रधानीभूतोऽधिकरणानामुपर्युपरिभावः, क्रियाणां च त्यागतारतम्यमित्यार्थक्रमश्च न्यग्भूतोऽप्रधान इत्युभयक्रमेऽपि शब्दप्रधानता ॥