सोहेति । ‘शोभेव लक्ष्मणमुखं वनमालेव विकटं हरिपतेरुरः । कीर्तिरिव पवनतनयमाज्ञेव बलान्यस्य विलगति दृष्टिः ॥’ अस्य रामस्य दृष्टिर्लक्ष्मणमुखं विलगति संबध्नाति । शोभेव दर्शनानन्तरमेव मुखप्रसादात् । हरिपतेः सुग्रीवस्य विस्तीर्णमुरः सा विलगति वनमालेव पौरुषाध्यवसायनिमित्तम्, समस्तवक्षःस्थलविलोकनाद्धवलश्यामलया दृष्ट्या वनमालेव प्रमाणावसरे प्रभुणा सुग्रीवाय प्रसादीकृतेति भावः । पवनतनयं हनूमन्तं विलगति कीर्तिरिव, तस्य ज्ञातपौरुषस्य विकसितया धवलितगगनया दृष्ट्या निरीक्षणं कृतमिति भावः । बलानि विलगति आज्ञेव, तदनन्तरमेवातिबलानां तेषां गमनोद्योगात् । ‘आपादप्रवणां मालां वनमालेति तां विदुः ।’ इति शाश्वतः । मुखादेराधारस्यैव कर्मता । यद्वा ‘उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ।’ इति व्युत्पत्त्या विलगतेः सकर्मकता । इह रामदृष्टेः शोभाद्युपमानमालया सूत्रेण ग्रथनमेव, विस्तरेणोपमितेर्मालोपमेयम् । न चेयं बहूपमा; एकस्य धर्मस्य बहुभिरनुपस्थितत्वात् ॥