यदिति । हे प्रिये, मम त्वत्सादृश्यहर्षमात्रमपि न दैवेन क्षम्यते । यस्मात्तदिन्दीवरं जले मग्नम् । कीदृशम् । त्वन्नेत्रसमशोभम् । चन्द्रो मेघैरन्तरितश्छन्नः । कीदृशः । त्वन्मुखप्रतिबिम्बसदृशः । तेऽपि राजहंसा गताः । ये त्वद्गतितुल्यगमनाः इह प्रसिद्धिविपर्ययेणोपमितेर्विपर्यासोपमा ॥