अत्र ‘उपमितं व्याघ्रादिभिः सामान्याप्रयोगे २।१।५६’ इति समासे पद्मानीव पद्मानि चन्द्रा इव चन्द्रा इत्यभेदोपचारेणोत्पन्नसादृश्यात्पाणीनां नखानां च पद्मचन्द्रादिभिरभिधाने सामान्येवादिशब्दाप्रयोगादुपमानार्थस्तिरोभूत इति सोऽयं गौणशब्दव्यपाश्रयः समासहेतुकः समस्तरूपं नाम प्रकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः ॥