स्मितमित्यादि । हे सखि, तव मुखेन्दौ स्मितमीषद्धासो ज्योत्स्नास्ति । कुचकुम्भयोः प्रभा दीप्तिरम्बु जलम् । बाहुलतायाः पल्लवभूते मणौ नखदीप्तयः 416 पुष्पम् । ‘नीरक्षीराम्बुशम्बरम्’ इत्यमरः । वादिव्यतिरेकादुपमातिरस्कारः । इह प्रथमं समस्तं ततोऽसमस्तमिति समस्तव्यस्तता ॥