ववसाअ इत्यादि । ‘व्यवसायरविप्रदोषो रोषगजेन्द्रदृढशृङ्खलाप्रतिबन्धः । कथं कथमपि दाशरथेर्जयकेसरिपञ्जरो गतो घनसमयः ॥’ अत्र दाशरथे रामस्य कथं कथमपि कष्टसृष्ट्या घनसमयो वर्षर्तुरतीतः । कीदृशः । व्यवसायः कार्योद्योगः स एव रविस्तेजोमयत्वात्तस्य प्रदोषोऽस्तगमनकालः । दोष एव गजेन्द्रो दुर्निवारत्वात्तस्य दृढशृङ्खलाप्रतिबन्धः प्रतिबन्धकत्वात् । जय एव केसरी तस्य पञ्जरो गृहभेदो नियामकत्वात् । ‘शृङ्खला निगडे त्रिषु’ इति भेदिनीकारः । इह रामसंबन्धिसंबन्धिरूपणात्परम्परारूपकम् । संबन्धिसंबन्धित्वादेव विकृतत्वम् ॥