अत्र समस्तोपमायामिव पादाख्यः पङ्कजाख्यश्चावयवी परस्परमुपमानोपमेयभूतः प्रतीयमानाभिधीयमानसादृश्यैरङ्गुलिश्रेणिनखदीधितिभिर्दलश्रेणिकेसरैश्च सह सामस्त्येन रूपितस्तद्योग्यस्थानविन्यासेन चार्थस्य प्राधान्यमभिहितमिति समस्तं नाम रूपकमिदमङ्गिप्रधानरूपकेष्वर्थभूयिष्ठरूपकभेदः । न चैतद्वाच्यम्—'पाणिपद्मानि भूपाना'मित्यादेरुदाहरणादिदं न भिद्यत इति । तत्र हि नखार्चिषां क्रियासमावेशेन प्राधान्यमवगम्यते, न नखचन्द्राणां ततश्च न रूपकम् । पाणिपद्मेत्यस्य तु यद्यपि संकोचक्रियायामस्ति समावेशस्तथापि न तानि वर्णनीयत्वेनोपन्यस्तानि, अपि तु जिगीषुभाववर्णनाङ्गतया । अतः समावेशमात्रभणनान्न तत्र पाणिपद्मानां नापि नखचन्द्राणामर्थप्राधान्यमपि तु शब्दप्राधान्यमेव । इह तु चरणपङ्कजताम्राङ्गुलिदलश्रेण्यादिविशेषणविशिष्टस्य भूपालमौलिविनिवेशनेन प्राधान्यं प्रतीयत इत्युभयमपि निरवद्यम् ॥