इदमित्यादि। हे कान्ते, तवेदं मुखं जगन्नेत्राणामिन्दुरस्माकं तापाय कथं कल्पते शक्तो भवति । कीदृशम् । आर्द्रस्मितं सरसेषद्धास एव ज्योत्स्ना यत्र तत् । स्निग्धं नेत्रोत्पलं यत्र तत् । स्मितस्यार्द्रत्वेन स्नेहजनितता लक्ष्यते, कोपस्मितस्य सूक्ष्मत्वात् । इह ज्योत्स्नाया उत्पलस्य च सहानवस्थानं तच्च मिथोऽनुपकार्योपकारकभावादित्ययुक्तरूपकता । अर्थप्राधान्यं पूर्वोक्तयुक्त्यात्रापीत्याह—अत्रापीति ॥