अत्रौष्ठादीनां दलादीनां च मुखाम्भोजावयवानां स्फुरितविगलितोत्खण्डितस्फुटविशेषणविशिष्टानां परस्परमुपमानोपमेयभावरूपितानां मुखपक्षे कमलपक्षे च सहजत्वं गम्यत इति सहजावयवो नामायमङ्गप्रधानरूपकेष्वर्थभूयिष्ठरूपकभेदः । नैतद्वाच्यम्—ताम्राङ्गुलिदलश्रेणीत्यादेरर्थप्रधानभेदादिदं न भिद्यत इति । तत्र हि भूपालमौलिधारणक्रियासमावेशेनावयविनः प्राधान्यं विवक्षितम्, इह तु पतनक्रियायामवयवानामत एव ते स्फुरितादिविशेषणैर्विशिष्यन्ते ॥