अत्र कुम्भकर्णप्रतिवचनममर्षोऽशुकमिति दशाननपक्षे दण्डो घोर-423 विषं निर्मोक इति भुजगपक्षे येऽवयवास्तेषामाहार्यत्वादिदमाहार्यावयवं नाम रूपकमङ्गप्रधानरूपकेष्वर्थभूयिष्ठरूपकभेदः । अत्रापि कुम्भकर्णसंबन्धपरिघट्टितगलितविशिष्टानामवयवानामेव दशाननभुजगभीषणतरीकरणक्रियायां प्राधान्यमवगम्यते ॥