यस्या इत्यादि । सा मम तृष्णैव लता हे कृष्ण, त्वत्पादपूजापरशुना लूयतां छिद्यताम्, त्वच्चरणार्हणैव परशुः कुठारः । यस्यास्तृष्णालताया अहंकृतिरहंकार एव बीजमादिकारणम्, गुरुतरो ममेतिग्रहो ममत्वनिश्चयो मूलम्, नित्यमिदमिति 424 स्मृतिरङ्कुरः, पुत्रमित्रभृत्यादयः किसलयाः, दाराणां पत्नीनां परिग्रहोऽनुरागः स्कन्धः, परिभवः पराभवः कुसुमम्, दुर्गतिर्नरकः फलम् । सर्वत्र यस्या इत्यन्वयः । ‘तरुप्रकाण्डे स्कन्धो ना’ इति विश्वः । ‘नरको निरयो दुर्गतिः स्त्रियाम्’ इत्यमरः । इह बीजादीनां सहजावयवता, अहंकृत्यादीनामाहार्यावयवता, तेषामेव च प्राधान्यं विवक्षितमित्युभयावयवप्रधानमिदम् । ध्रौव्यं नित्यता ॥