वणेत्यादि । इह धूमसमूहा एतादृशा विज्ञायन्ते । कीदृशाः । वनराज्या वनपङ्क्तेः केशहस्ताः केशकलापा एव, ‘पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे ।’ इत्यमरः । कुसुमायुधस्य कामस्य सुगन्धि चलद्ध्वजपटा एव चन्द्रकिरणानां मुहूर्तमेघा एव तमसामन्धकाराणां प्रतिहस्ताः प्रतिनिधयः । ‘प्रतिहस्तः प्रतिनिधौ’ इति विश्वः । इह धूमोत्पीडस्य वनराजिकेशकलापादेराधारत्वानुपपत्तेर्निराधाररूपकमिदम् ॥