अनाघ्रातमित्यादि । अनघमनवद्यं तस्या रूपमिह भुवि कं भोक्तारं समुपस्थितं करिष्यति तदहं न जाने । कीदृशम् । अनाघ्रातमगृहीतगन्धं पुष्पमेव । कररुहैर्नखैरलूनमखण्डितं किसलयम् । अनामुक्तमपरिहितम्, अनास्वादितरसमगृहीतास्वादं नूतनं मधु,पुण्यानां चाखण्डं सकलं फलमपि । ‘आमुक्तः परिहिते शुभ्रे’ इति विश्वः । इह पुष्पादीनामनाघ्रातादिना व्यतिरेकवतां रूपणाद्व्यतिरेकवद्रूपकमिदम् ॥