अत्र पितामहोत्पत्तिपङ्कजमिव नभस्तलं शोभत इत्युपमानोपमेयभावेनावयवावयविनोरभेदस्याविवक्षायामुपमैव न रूपकम् । रविकरधवलाभ्रदलसहस्रयोः केसरनिकरदलसहस्रयोश्च प्रतीयमानाभिधीयमानसादृश्ययोश्च सहजाहार्यावयवभूतयोरभेदोपचारेण रूपणमिति सावयवरूपेणोपमायाः संकीर्णत्वादिदं सावयवसंकीर्णं नाम संकीर्णरूपकेषूभयभूयिष्ठरूपकभेदः ॥