दीहो इत्यादि । इह दिवस एव भुजङ्गः सर्पोऽपरसमुद्रं पश्चिमसमुद्रं गत इव । कीदृशः । दीर्घो महापरिमाणः । सूर्यबिम्बमेव फणामणिप्रभां विकासयन् आतपसमूहं कञ्चुकमिव त्यजन् । अत्रासामानाधिकरण्येनावयवावयविभावो न ज्ञायते, इवप्रयोगेण चोपमा ज्ञायत इति निरवयवसंकीर्णरूपकमिदम् ॥