धुअ इत्यादि । इह दिशो निजस्थानं स्वकीयस्थानं प्रतिगता इव । इवपदमुत्प्रेक्षायाम् । कीदृश्यः । धुता मेघा एव मधुकरा भ्रमरा यासु ताः । घनसमयेन वर्षाकालेन घनावरणादाकृष्टाः संनिहितीकृता अवनता भूमिलग्नाः पश्चाद्विमुक्तास्त्यक्ताः । नभ एव पादपो वृक्षस्तस्य शाखाभूताः । अत्र धुतमेघपदे बहुव्रीहिः । नभःपादपपदे षष्ठीसमासस्ताभ्यां सावयवत्वं निरवयवत्वं च यथाक्रममुक्तम् । अत एवोभयसंकीर्णरूपकमिदं । 142स्कन्धके, ध्वनिस्तु दिशन्तीति दिशः प्रौढनायिकाः । अन्या अपि दिशो निजस्थानमिव गच्छन्ति । कीदृश्यः धुतमेधं(ध्यं) यन्मधु मद्यं 429 तत्करे यासां ताः । यद्वा धुता मेधा बुद्धिर्येन तादृशं मधु करे यासां ताः, यद्वा धुता मेधा यस्मादेवंविधो मधुकरो विदग्धो यासां ताः । घनेन दृढेन समयेन शपथेन समदेन पुंसा वा आकृष्टा आहता अवनता वशीकृताः । उपभुक्ता इति यावत् । पश्चाद्विमुक्तास्त्यक्ताः, यद्वा विमुक्ता विगतमुक्ताहाराः पश्चात्कर्मधारयः । ‘समयः शपथे काले’ इति विश्वः । नखस्य पातः क्षतं तदेव प्रसाधः प्रसाधनं यासां ताः143 ॥

  1. ‘स्कन्धकं नाम छन्दः'.
  2. पक्षे ‘नखपातप्रसाधाः’ इति