पीणेत्यादि । इहेन्द्रधनुः प्रसाधयति...... श्लिष्यति वा । कीदृशम् । पीने पयोधरे मेघे लग्नम् । प्रवसता गच्छता जलदसमयेन वर्षाकालेन दिशां वितीर्णं दत्तम् । सौभा144ग्यस्य श्रेष्ठं प्रथममाद्यं चिह्नम् । सरसे स्निग्धे नभसि गगने पदं स्थानं यस्य तत् । पक्षे सरसं नखपदं क्रमेण प्रमीयते (प्रम्लायति) । कीदृशम् । दिशां प्रौढाङ्गनानां सुन्दरीणां वा पीने मांसले पयोधरे स्तने लग्नम् । प्रवसता जलदसमयेन नायकेन वितीर्णं दत्तम् । जलान् मूर्खान् द्यति खण्डयति जलद ईदृशः समय आचारो यस्य सः । सौभाग्यस्य प्रथमचिह्नमिन्द्रधनुराकारं च । ‘समयः स्यात्काल आचारे’ इति शाश्वतः । प्रवासगमने स्मरणार्थं विदग्धेन नखक्षतं देयम् । तदुक्तं मद्रसिकसर्वस्वे—'प्रवासगमने देयाः स्नेहसंस्कारका नखाः । 430 चिरोत्सृष्टेषु रागेषु प्रीतिर्गच्छेत्पराभवम् ॥ रागायतनसंस्मारि यदि न स्यान्नखक्षतम् । रेखास्तिस्रश्चतस्रश्च वक्रा वक्राकृतिर्नखः ॥’ इति । अत्र श्लेषालंकारेणोपहितत्वादेव संकीर्णरूपकता ॥ इति रूपकालंकारनिरूपणम् ।

  1. ‘शोभाग्रप्रथमचिह्नं’ इति वा छाया