अत्र चन्द्रेण सदृशं चन्द्रसदृशं मुखम्, अमृतेन सदृक्षोऽमृतसदृक्षो मुखरस इति समासे सुन्दरमधुरादिसामान्यशब्दप्रयोगो न श्रूयते प्रतीयते च, सदृशादेर्द्योतकादिति सामान्यधर्मस्य सौन्दर्यमाधुर्यादेरुपमान-401 प्रसिद्धस्योपमेये समासेनैव प्रतिपादितत्वादियमन्तर्भूतसामान्या नाम समासोपमासु पदोपमाभक्तिः ॥