चन्द्र इति । ‘चन्द्रसदृशं मुखमस्या अमृतसदृक्षश्च मुखरसस्तस्याः । सकचग्रहरभसोज्ज्वलचुम्बनं कस्य सदृशं तस्यः ॥’ कश्चिन्मनोविनोदार्थं वयस्याय कान्ताप्रकर्षं कथयति—चन्द्रेति । कचग्रहे केशपाशग्रहणे यो रभस आवेशस्तेन सहितमुज्ज्वलं मनोज्ञं चुम्बनम् । इहान्तर्भूतं समासेन बोधितं सामान्यसाधर्म्यं सौकुमार्यादिकमित्यन्तर्भूतसामान्या । न श्रूयते चेत्रास्त्येवेत्यत आह—प्रतीयत इति । द्योतकादितीति । सादृश्यस्य सप्रतियोगिकतया तत्प्रत्यायकत्वमेव द्योतकत्वमित्यर्थः । उपमानेति । उपमीयते सादृश्यमानीयतेऽनेनोत्कृष्टगुणेनान्यदित्युपमानमित्यर्थः । उपमेय इति । उपमीयते न्यूनगुणं यत्तदुपमेयमित्यर्थः ॥