द्वयोरिति । द्वयोरुपमानोपमेययोर्वचनरचनाभेदाद्यत्रौपम्यार्थतुल्यता ज्ञायते तत्साम्यमामनन्ति कथयन्ति । तर्ह्युपमारूपकयोरतिव्याप्तिः । अत उक्तम्—उपमेति । यद्यपि त्रिषु सादृश्यमस्ति तथापि प्रकारकृतो भेद इति भावः । तद्विभजते—तस्य त्विति । यद्यपि भेदानामानन्त्यादसंख्यं तत्साम्यं तथापि तिस्र उक्तयः प्रकारानुगमकास्तत्रेत्यर्थः ॥ वस्त्विति । वस्तु वाच्यं किमप्युपन्यस्य तत्सधर्मणस्तेन तुल्यगुणस्य न्यसनादुदाहरणात्साम्यज्ञानं प्रतिवस्तूक्तिरित्यर्थः ॥ पूर्वादीत्यादिपदेनोत्तरग्रहणं क्रियायोग एव निमित्तं तत्कृतसाम्यात् । स्थितेत्यादि । स भूपतिर्दिलीपस्तां सुरभिमन्वगच्छदनुगच्छति स्म । अनुगमनमेवाह—स कीदृशः । स्थतोऽवस्थितः उच्चलितः प्रस्थितः, आसनवानुपविष्टः, जलाभिलाषी जलेच्छायुतश्च । जलाभिलायीतिपाठे ‘ला दाने’ ताच्छीलिके णिनि ‘आतो युक्-७।३।३३’ इति युकि जलपानशील इत्यर्थः । तां कीदृशीम् । स्थिताम्, प्रयातां कृतगमनाम्, निषेदुषीमुपविष्टाम्, जलमाददानां गृह्णन्तीं च । छायेव यथा छाया कमप्यनुगच्छति तथेत्यर्थः । एतासां क्रियाणामेकचित्ततयानुगमार्थं धीर इत्युक्तम् । ननु छायेव स इति लिङ्गभेददोषुष्टमेवेदम् । अतः कुतोऽलंकारतेत्यत उक्तम्—अनाविष्टेति । अविवक्षितलिङ्गत्वात् । नहि लिङ्गविवक्षायामिह किंचित्प्रयोजनम् । इयं चोपमा लौकिकी । लोके च छायाया आवरकानुगमनैयत्यं नत्वन्यस्येति तावन्मात्रमेवोद्देश्यमिहेति न दोषः । तदिदमुक्तम्—अवश्येति । सर्वक्रियायाः प्रथमत एव साम्यात्पूर्वेयम् । उपमायामेक एव वाक्यार्थः, इह तु वाक्यार्थयोर्भेद इति भित्रालंकारता ॥