विसेति । इह बहलधूमोत्पीडो महाधूमसमूहो विषवेग इव प्रसृतो यद्यद्विद्रुमपीठमभिलीयतेऽभिलाति गृह्णाति वा तत्तन्महोदधेर्विद्रुमपीठं श्यामलायते कज्जलीभवति । कीदृशम् । रुधिरमिव, इयं पूर्वदिशा । अभिलीयत इति अभिपूर्वात् लीङ् आश्लेषे दैवादिकः... । ‘स्यादुत्पीडः समूहेऽपि’ इति रत्नकोषः । अत्र जातेर्द्रव्यस्य सामान्यत एव साम्यमिति सामान्यरूपता दृष्टान्तस्य पूर्वामुपन्यासात्पूर्वता च ॥