उज्ज्वलेत्यादि । त्वया त्यक्ता स्निग्धा स्नेहवती सखी न राजते इति प्रियायाः सखीं प्रति पत्युर्वचनम् । त्वया कीदृश्या । उज्ज्वलो निर्मल आलोको दर्शनं यस्यास्तया । स्निग्धा कीदृशी । मलीमसं म्लानं मुखं यस्याः सा । यथा प्रदीपशिखया त्यक्ता वर्तिर्न शोभते तथेत्यर्थः । प्रदीपशिखया कीदृश्या । उज्ज्वल आलोक उद्द्योतो यस्यास्तया । वर्तिः कीदृशी । स्निग्धा स्नेहवती, स्नेहस्तैलम् । मलानमुखी च । 'मलीमसं तु मलिनम्’ इत्यमरः । इह नायिकाशिखयोर्द्रव्ययोर्योगः । दृष्टान्तस्य सामान्यरूपता पश्चादुपादीयमानता च व्यक्तैव ॥