कमलेत्यादि । ‘कमलकरा रम्भोरूः कुवलयनयना मृगाङ्कवदना सा । कथं नु नवचम्पकाङ्गी मृणालबाहुः प्रिया दहति ॥’ इति । ईदृशी कान्ता कथं नु (न) दहति तापयति किंतु तापयत्येव । रम्भे कदल्याविवोरू यस्याः सा । नवचम्पकं चम्पककलिका । इह कमलमिव ताम्रौ करौ यस्याः सेत्यादाविवशब्दो द्योतकः सामान्यं ताम्रत्वादिकं तयोश्च समासेनैवोक्ततयान्तर्भूतोभयार्थेयम् ॥