आपातेत्यादि । हे आपातमात्ररसिके एतत्क्षणमात्ररसवशे हे नायिके, सरसीरुहस्य पद्मस्य बीजं वापिकायामर्पयितुं क्षेप्तुं किमिच्छसि । किं तु नेदमर्हमित्यर्थः । अत्र हेतुः । अयं कालः कलियुगाख्यः, अत एवेदं जगन्नकृतज्ञममर्यादम् । ततो हे अज्ञे, स्थित्वा कालान्तर इदं सरसीरुहं तवैव मुखस्य शोभामथ च संपदं हरिष्यति ग्रहीष्यति । जेष्यतीति यावत् । ‘आपातः पुंसि तत्कालं’ इति मेदिनीकारः । ‘मर्यादावान्कृतज्ञः’ इति च । इह पद्मस्योपमानस्य मुखादुपमेयात्किंचिदुत्कर्षः साहजिक एव विवक्षितः ॥