घरिणीत्यादि । ‘गृहिण्य महानसकर्मलग्नमसीमलिनितेन हस्तेन । स्पृष्टं मुखं हस्यते चन्द्रावस्थां गतं पत्या ॥’ इह कयाचिन्नायिकया चन्द्रेण स्पर्धमानया पाकासक्तया श्यामितहस्तेन मुखे स्पृष्टे सति नायकस्तन्मुखस्य चन्द्रसमत्वं सूचयन्नुपहसतीत्येकापरस्यै कथयति—गृहिण्या इति । गृहिण्याः पाकक्रियालग्नश्यामभागश्यामितेन करेण स्पृष्टं मुखमत एव चन्द्रावस्थां गतं पत्या हस्यते । ‘पाकस्थानमहानसे’ इत्यमरः । अत्र मसीमालिन्यं वैकृतं तत एव मुखचन्द्रयोः साम्यापत्तिः ॥