मृगमित्यादि । हे सखे, तस्य मुखस्य ततश्चन्द्रादियानेतावान्प्रकर्षः । तमेवाह । मृगाङ्कश्चन्द्रोऽङ्के क्रोडे सदा सकलं मृगं बिभर्ति । तस्याः पुनर्मुखं (कर्तृ), कपोलदेशे मृगनाभेः कस्तूरिकायाः पत्त्रं पत्त्रावलीं कदाचिद्वहति । इह मुखस्योपमेयस्य वाचनिकी वचनतात्पर्यपर्यवसन्नापकर्षापत्तिः । कलङ्किना सममनयोरल्प एवोत्कर्ष इति हि वचनमपसर्षबोधकमेव । विकृतता च कस्तूरीपत्त्राधानात् ॥