प्रतीति । सा प्रतिवस्तूक्तिर्दृष्टान्तोक्तिप्रपञ्चोक्त्योश्छायां धर्मं गाहते बिभर्ति तयोश्छायावाहिनीत्यर्थः ॥ तन्मन्ये इत्यादि । एतस्या एतन्मुखं यदि युवतिमुखानि (कर्तॄणि) विजयन्ते तत्तदा हिमभासश्चन्द्रस्य कान्तिस्तारानिकरेणोच्छेद्येत्यहं मन्ये । इह कर्मानुमितिरध्याहार्या । विजयन्त इत्यत्र ‘विपराभ्यां जेः १।३।१९।’ इति तङ् । अत्र प्रथममृजूक्त्या दृष्टान्तः, पश्चाद्दार्ष्टान्तिकमृजूक्त्यैव प्रतिवस्तूपन्यासः । तथा च दृष्टान्तोक्तिच्छाया व्यक्तैव, विधिमुखतापि व्यक्तैव ॥