न मालतीत्यादि । मालतीमाला विमर्दयोग्या नास्ति । अतिमृदुत्वात् । तद्वन्नव्यं नवीनं प्रेम अपराधान्न सहते । केसरस्रक् बकुलमाला म्लानापि सती न म्लायति अतिमलिना न भवति तद्वद्देवी कथंचिन्न खण्डप्रणया न खण्डितप्रश्रया भवति । ‘नव्यो नवीनो नूतनो नवः’ इत्यमरः । अत्र दृष्टान्तोक्तिच्छायया निषेधः । पूर्वत्वमृजुत्वं च स्फुटमेव ॥