शरदित्यादि । ईदृशी सा स्त्री मम मनः कथमनिशं दहति । कीदृशी । शरच्चन्द्ररम्यमुखी नीलनलिनपत्रदीर्घनेत्रा कदलीमध्यसुन्दरोरूश्च । इहोपमानमिन्दुः, उपमेयं मुखम्, तुल्यधर्मः सुन्दरत्वम् । एवमन्यत्रापि । शरदिन्दुरिव सुन्दरं मुखं यस्याः सा इतीवार्थस्यापि समासाभिधेयता । सर्वः समासो यस्यामित्यादिविग्रहे विवक्षितार्थालाभ इत्यत आह—सर्वमिति ॥