एक्को इत्यादि । ‘एकोन्नामित भ्रूभङ्गे विमलकपोले वदने तव मृगाक्षि तिर्यङ्गयने । एतच्छशिबिम्बं कलङ्कागारं पाण्डरमुत्क्षिप्तमुपरि भ्रामयित्वा निर्मञ्छनकर्परम् ॥’ इह हे मृगाक्षि, तव वदन एतच्छशिबिम्बं निर्मञ्छनकर्परमुपरि भ्रामयित्वोत्क्षिप्तम् । कीदृशे वदने । एक उन्नमित उत्तोलितो भ्रूभङ्गो यत्र तस्मिन् । विमलौ कपोलौ यत्र तस्मिन् । तिर्यग्नयने यत्र तस्मिन् । एतादृशस्य निर्मञ्छनमुचितमेव । शशिबिम्बे निर्मञ्छनकर्परधर्ममाह—कलङ्क एवाङ्गारो यत्र तत्पाण्डरं श्वतं च । ‘अङ्गारोऽलातमुल्मुकम्’ इत्यमरः । ‘कर्परोऽस्री कपालेऽपि’ इति मेदिनीकारः । अत्रोपमेये वदने भ्रूभङ्गादेर्विकृतत्वप्रकाशः स्फुटः । उत्तमस्य निर्भञ्छनं क्रियत इत्युक्तिभङ्गी ॥