दातार इत्यादि । यदि दातारः सन्ति तदा कल्पशाखिभिः कल्पवृक्षपञ्चकैरलं निष्फलम् । दानस्य दातृभिरेव निष्पादनाम् । यद्यर्थिनो याचकाः सन्ति तर्हि तृणैः किम् । याचकानामेव तृणाकार्यकरत्वात् । एवमन्यत्रापि । चेद्यदि सन्तः सज्जनास्तदा अमृतेन किम् । खला दुर्जना यदि तदा कालकूटेन विषेण किम् । दृशोर्नेत्रयोः । पन्थानं मार्गं यदि प्रिया एति आयाति तदा कर्पूरशलाकया किं कर्पूरघटितकाष्ठिकया किम् । कर्पूराञ्जन्या वा किम् । संसारेऽपि सति विद्यमाने तस्मादपरमिन्द्रजालमस्ति तेनापि किम् । सकलेन्द्रजालात्संसारस्य महत्त्वात् । ‘चन्द्रादिकाष्ठ्यञ्जनयोः शलाका’ इति मेदिनीकारः । अत्र दातृप्रभृतेरुत्कर्ष उपमाने च निषेध ऋजूक्त्यैव ॥