तवेति । अत्रोत्तरोष्ठ इत्युपरितन ओष्ठ उत्तरोष्ठमन्तरमुखं नयनान्तं च मुक्त्वा 049 चुम्बनवद्दशनच्छेद्यस्थानानीति कामसूत्रम् । भिन्नग्रामरागाणामिति । भिन्नमार्गेषु सप्तस्वराणां समवायो नोपनिबद्धः । तथा च ‘प्रांशुस्तु धैवतन्यासः पञ्चमर्षभवर्जितः । षड्जो दीव्यतां जा(या)तो भिन्नषड्ज उदाहृतः' । तमङ्गोऽप्याह—‘षाडवौडविके जाती भिन्नग्राम उदाहृतः’ इति । ततश्च षड्वा पञ्च वा स्वरा भवन्ति भिन्नग्रामे न तु सप्त । कामशास्रविरोधप्रस्तावे कथं कलाविरोध उदाह्रियत इत्यत आह—तदंशत्वादिति । गीतादिकलाचतुःषष्टेः कामाङ्गतया कामसूत्रकारैरुपदेशाद्भवति तद्विरोधे कामशास्रविरोध इत्यर्थः । आदिग्रहणाद्देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसंपदेत्यादिकं मोक्षादिशास्त्रविरुद्धमुदाहरणीयम् ॥

दोषाणां प्रथममुद्देशोऽयमभिसंधाय कृतस्तं विशेषसंहारव्याजेन स्फुटयति—