एवमिति । तदेवं दोषलक्षणे वृत्ते क्रमप्राप्ता गुणा लक्षयितव्याः । तदेवमोजः प्रसादादयो गुणाः । यमकादयस्त्वलंकारा इति पूर्वप्रसिद्धौ सत्यां विचार्यते । किमेषां मिथो भेदनिबन्धनम्, कथं चालंकारेभ्यो गुणानां पूर्वनिपातः, रसस्य हि दोषाभावादित्रयसंस्कृत एव पदलाभ इत्यस्ति पश्चाद्भावे निबन्धनमिति तत्राह—अलंकृतमपीति । रसावलम्बिनो गुणाः, शब्दार्थावलम्बिनस्त्वलंकारा इति काश्मीरकाः । तदगमकम् । तथा हि—यदि काव्यस्य रसप्रधानात्मकतामाश्रित्यायं विभागः, अलंकारा अपि तर्हि तत्प्रवणा एव । अथ नायं नियमो यत्सर्वत्र रसः प्रधानमिति, तदात्र गुणेष्वपि कथं तदालम्बननियमः । किं चात्र प्रसादादिवत् श्लेषादयोऽपि शब्दार्थगता एव प्रत्यभिज्ञायन्ते तत्कथमयं विभागः । यद्यपि शब्दार्था ज्ञायन्ते, तथापि रसप्रवणा इति चेत् । किमिदं रसप्रवणत्वं, रसाश्रितत्वं तावन्न संभवत्येव । रसप्रतीतिपर्यवसानं च यथाकथंचिदलंकारेष्वपि तुल्यमित्यविचारितरमणीयोऽयं मार्गः । लोकशास्त्रवचनातिगामी कश्चिद्विशेषः शोभापदाभिलप्यो भवन्नस्मिञ्श्रव्यशब्दः शब्दार्शौ विषयीकरोति । ततश्च तथाभूतशोभानिष्पत्तिहेतवो गुणास्तदुत्कर्षहेतवस्त्क्लंकाराः । यदाह—‘काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलंकाराः’ इत्यन्ये, तदपि न । अस्य रसादिवदव्याप्तेः । नहि तेषां रीतिशरीरान्तर्निवेशः कैश्चिदभ्युपगम्यते, तस्मादालंकारिकसमयानुपाती श्लेषाद्यन्यतमो गुणः । जात्याद्यन्यतमश्चालंकार इति विभागः । तत एव च शोभाकारित्वेन गुणानामप्यलंकारपक्षनिक्षेपं करिष्यति । उद्भूतगुणं तु स्फुटालंकारहीनमपि चमत्कारमावहत्येव । यथा—‘का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते । आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥’ यतो गुणयोगो मुख्यस्ततः प्रथममुद्दिष्टो लक्षितश्चैषः । सामान्यगुणस्थितौ गुणा-051 न्विभजते—त्रिविधाश्चेति । शब्दः शरीरस्थानीयोऽधिष्ठेयतया प्रथमप्रतिसंधेयतया च बाह्यः । ततस्तदाश्रिता गुणा अपि बाह्याः । अर्थस्त्वात्मतुल्योऽधिष्ठायकतया पश्चाद्ग्रह्यतया चान्तरस्तेन तदाश्रिता गुणा अप्यान्तराः । अथेदानीं येषामग्रे दोषत्वं ततो गुणभावः । केचिद्विशेषमासाद्यन्ते वैशेषिकाः । पूर्वं दोषा अपि विशेषयोगेन गुणीभवन्तीत्यभिप्रायात् । ‘माधुर्यौजःप्रसादास्त्रय एव गुणाः’ इति ध्वनिकारस्य मतं निरस्यति—चतुर्विंशतिरिति । परस्परसंकीर्णत्वादुपाधीनामिति भावः । न चैतदस्माकं मनीषामात्रेण कल्पनमित्याह—आख्याता इति । निष्ठाप्रत्ययेनेदंप्रथमता द्योत्यते । उक्तविशेषादेव शब्दगुणानां पूर्वभाव इत्याह—तेष्विति । अभिधानं द्विविधं विभागतः, लक्षणतश्चेत्याह—नामलक्षणयोगत इति । पदघटनव्यवस्थितौ गुणान्तरगवेषणम् । अतः प्रथमं श्लेषलक्षणमाह—तत्रेति । श्लिष्टानि घटितानि पदानि यत्र तस्य भावस्तत्ता । न च घटनामात्रस्य गुणभाव इति शङ्क्यम् । सुपदं शोभना घटनेत्यर्थः । शोभनत्वं घटनाया मसृणत्वमेकताप्रतिभानसामर्थ्यं यद्ब्रह्मं सूत्रमुरःस्थल इति । बीजं चात्र श्रुत्यनुप्रासवत्त्वमलक्षितसंधिता च । तथा हि प्रकृतोदाहरणे उभावित्युकारभकारावोष्ठ्यौ । यदि ‘व्य’ इत्याद्यन्तौ वकारयकारौ तालव्यौ । न चायं वर्णानुप्रासः । ईषत्स्पृष्टत्वादिभेदात् । मध्ये दकारवकारौ दन्त्योष्ठ्यौ । ‘म्नि’ इत्यत्र मकारो भकारेण, नकारो दकारेण समानश्रुतिक इत्यादि बोद्धव्यम् । तथा ‘पृथक्प्रवाहौ’ इति ककारस्य पवर्गगमनैकता प्रतिभासते, ‘प्रवाहावाकाश’ इत्यौकारस्यावादेशेन वर्णान्तरनिष्पत्त्या । एवं ‘पयसः पतेताम्’ इत्यादावुन्नेयम् । पृथगिति पार्श्वद्वये । तेन वक्षःस्थलदक्षिणवामभागयोर्लम्बमानो द्विसरो हार इति लभ्यते । अस्य वक्ष इति । अत्रास्येति पदेन नान्यस्य हार इत्थमनुपमो न चान्यस्य वक्षःस्थलमाकाशवदुन्नतविस्तीर्णमिति भगवतः सकलजगद्विलक्षणत्वध्वनिरित्याराध्याः ॥