प्रसिद्धार्थेति । अस्यार्थः प्रागेव विवृतः । प्रसादो द्विधा—वाच्यविषयः, प्रतीयमानविषयश्च । तत्र प्रतीयमानविषयो यथा—‘एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥’ अत्र श्रुतावगतादेव वाक्याल्लज्जादयो हस्तदत्ता इव प्रकाशन्ते ॥ वाक्यविषयो द्विधा भवति । ग्राम्यैरेव ग्राम्य उपनागरैर्वा, पदैः संदर्भनिर्वाहे । आद्यो यथा—‘चन्द्रे कलङ्कः सुजने दरिद्रता विकाशलक्ष्मीः कमलेषु चञ्चला । मुखाप्रसादः सधनेषु सर्वदा यशो विधातुः कथयन्ति खण्डितम् ॥’ द्वितीयमुदाहरति—गाहन्तामिति । अत्र प्रथमपादे गाहन्तां महिषा इति ग्राम्यम् । निपानसलिलमित्युपनागरम् । शृङ्गैरिति ग्राम्यम् । मुहुरित्युपनागरम् । ताडितमिति ग्राम्यम् । द्वितीयपादे कदम्बकरोमन्थशब्दावुपनागरौ शेषाणि ग्राम्याणि । एवं च चरमयोरपि स्वतो विवेचनीयम् । गाहनं विलोडनं तन्निःशङ्कमेव भवतीति विस्रम्भध्वनिः । अत एव त्रासाभावात्प्रकृतिप्रत्यापत्तौ । शृङ्गाभ्यां पर्यायेण जलताडनं महिषजातिः । छायाश्रयणं यूथबन्धश्च मृगजातिः । चिरपरस्परवार्तानभिज्ञानाद्दिवा निष्पलायनेन रोमन्थोऽपरिचित इवासीत्तस्येदानीं शिक्षाक्रमेण यदि परिचयः स्यादित्यभ्यस्यत्विति ध्वनिः । वराहपतिभिरिति न यादृशतादृशानामस्मन्मृगयासंरम्भगोचरत्वमिति प्रकाश्यते । ननु चात्र कर्तृप्रक्रमभेदो दूषणं कस्मान्न भवति । नैतत् । आपातशौण्डेषु परिणतिभीरुषु च महिषेषु स्वभावभीतेषु मृगेषु न तथायं संरम्भते यथा पुनरावृत्तिचतुरेषु प्रकारकोविदेषु च वराहेषु । ततश्च तेषामुचितक्रियासु कर्तृतामात्रमेव न सोढवानिति सांप्रतं कर्तृताभ्यनुज्ञानेन व्यज्यते । ततस्तृतीयायामौचित्यनिवेशिन्यां प्रक्रमभेदोऽप्युचित एवेति व्यक्तिविवेककारादीनामपि संमतः पन्थाः । इदं चेति चकारेण चेदस्मद्धनुरारूढमवतीर्णं वा तदैव संरम्भगोचराणां भयविस्रम्भाविति कोपप्रकर्षः । अत एवास्मदिति बहुवचनं सजीवम् ॥