यदिति । प्रतीत्यन्तेन मार्गो व्याख्यातः । अवैषम्येण भणनमित्यनेन वाग्भेदः स्वरेषु ह्रस्वान्त्याः, व्यञ्जनेषु वर्गान्त्या दन्त्याश्च मृदवः कोमला वर्णाः । दीर्घाः स्वराः व्यञ्जनेषु णकारवर्जटवर्गरेफशषहा अदन्त्यसंयोगाश्च प्रस्फुटाः । शेषाणि व्यञ्जनानि दन्त्यसंयोगाश्चोन्मिश्रमध्यमा वर्णास्तेषामन्यतमैर्वर्णैर्यो बन्धनविधिस्तं प्रति यदवैषम्येण उपक्रमनिर्वाहादिना करणेन भणनमुक्तिः सा समता । न चेयं दोषाभावमात्रमेकजातीयवर्णपरिचयप्रबन्धप्रवेशनिर्वाहाणां सिद्धिः शक्तिव्युत्पत्तिरूपतया प्रधानोत्कर्षपर्यवसानात् । न च दोषाभावस्यैवंरूपता केनचित्प्रतिषिद्धा । अत एव श्लेषप्रसादयोरपि गुणभावः सिद्धः । ननु ‘रक्ताशोककृशोदरी क्व नु गता त्यक्त्वानुरक्तं जनं नो दृष्टेति मुधैव चालयसि किं वाताभिभूतं शिरः । उत्कण्ठाघटमानषट्पदघटासंघट्टदष्टच्छदस्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गभोऽयं कुतः ॥’ इत्यत्र वैषम्यं दोष एव स्यात् । न ह्यत्र मुक्तस्थाने स्फुटता । तस्माद्यत्किंचिदेतत् । तदेवं निर्वाह्यत्रैविध्यात्समता त्रिरूपा भवति ग्राम्या परुषा उपनागरिका च । तत्रोन्मिश्रप्रायसंदर्भनिर्वाहे ग्राम्या । यथा—‘पुरः पाण्डुच्छायं तदनु कपिलिम्ना कृतपदं ततः पाकोद्रेकादरुणगुणसंवर्धितवपुः । शनैः कोशारम्भे स्थपुटनिजविष्कम्भविषमे वने पीतामोदं वदरमरसत्वं कलयति ॥’ परुषा यथा—यच्चन्द्रेति । बालेन्दुमयूखमुकुलजालनिचुलितासु परमेश्वरजटावल्लरीपु भ्रमणाध्यासादिवाद्यापि हिमाद्रिकुञ्जेषु झाङ्कारिगङ्गाम्भ इति प्रतीयमानोत्प्रेक्षा । उपनागरिका यथा—‘वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः । अतिनिष्करुणस्य शुद्धशीला मम दीर्घां विरहव्यथां व्यनक्ति ॥’ अत्रास्मत्सहाध्यायिनः पूर्वार्धमेवोपनागरिकोदाहरणं मन्यन्ते । उत्तरार्धे हि विष्केत्यादिवर्णनिवेशनादुन्मिश्रत्वमेव । इयमपरोन्मिश्रा संदर्भजातिर्यत्कोमलकठोरवर्णतुल्यतया निर्वहणमिति ॥