या पृथगिति । पृथगिव पदानि यत्र भासन्ते स पृथक्पदः संदर्भ इत्युपमागर्भो बहुव्रीहिश्च । तस्य भावस्तत्ता । माधुर्यमुक्तस्वरूपं तच्छब्दगतं पृथक्पदतयाविच्छिद्यत इति । तदेव माधुर्ययुक्तम् । औचित्येन हि समासव्यतिरेक आकृष्यते कदाचिदनुद्धतो वा समासः । अनुद्धतिरनुल्लेखः । तदुक्तम्—‘अवृत्तिर्मघ्यवृत्तिर्वा माधुर्ये घटना तथा’ इति । अत एव ‘समासनिवृत्तिपरमेतत्’ इति वामनः । कश्चित्समासो रसौचित्येनाकृष्टः परिभाव्यमानो मनीषिभिश्चमत्कारकारणं भवति । यथा—‘तेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां क्षेमं तत्र कलिन्दशैलतनयातीरे लतावेश्मनाम् । विच्छिन्ने स्मरतल्पकल्पनमृदुच्छेदोपयोगेऽधुना ते नूनं जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः ॥’ अत्र तच्छब्दो येषां विलाससंपत्तिस्वभावलब्धप्रकर्षाणामनुभव एव साक्षीति विशेषप्राधान्यविवक्षया नसमासेनानिगमनात् । न या कापि वधूः, अपि तु गोपसंबन्धिनी कृतगोपाचारचातुरीपराधीना । नान्यत्र नीरसप्राये क्वचन सौहार्दं किं तु विलास एव । सोऽपि न यःकश्चित्, अपि तु गोपवधूसंबन्धीत्येवं बहूनां पिण्डीभावविवक्षया समास एवोचितः । एतावतैवाच्छेदोऽप्युचित एव । सर्वस्वायमानत्वात्तत्संबन्धजनितस्य विशेषस्य पृथगेवोक्तिरुचिता । राधारहःसाक्षिणामित्यत्रापि समासः पूर्ववत् । यद्यपि राधासंबन्धस्य वैवक्षिकं प्राधान्यमिति न समासः प्रतिभासते तथापि यदन्यस्य राधारहसि निवेशः क्षम इति भावयन्सुहृदामित्यपहाय साक्षिणामित्युक्तवान् । साक्षी हि तटस्थ एव व्याप्रियते । तेनावश्यकर्तव्यसाक्षिताप्राधान्यविवक्षया संभवति विरोधादित्यवसेयम् । स्थिता इति । पक्ष्मावस्थानेऽधरताडने स्तनतटनिपाते वलिभङ्गस्खलने नाभिनिम्नप्नाप्तौ जलबिन्दूनां कर्तृतानिर्देशात्स्वाच्छन्द्यमुन्मीलितम् । तथा च—गौर्या बाह्यसंवेदनाभावस्तेन भगवद्गतोऽनुरागप्रकर्षः प्रथमपादेन । निदाघतापच्छिदा रजोहरणेन वसुंधरा सौरभोन्मीलनेन मयूरकेकायितादिना त्रिभुवनस्यापि 055 ये चमत्कारास्पदमिति ध्वनितम् । तथाभूतानामथ संवेदने पूर्व एवाभिप्रायः । ताडितेत्याकारेण च्छेदोन्मेषः पयोधरेत्यादावोकारः । धकारतकारौ ॥