अनिष्ठुरेति । समस्त एव गुम्फे द्वित्राणि त्रिचतुराणि प्रस्फुटान्यक्षराणि निवेश्यन्ते स किलान्तरान्तरोपदंशन्यायेन चित्रास्वादपर्यवसायी सुकुमार इति प्राचां मतम् । अत एव समताया भेदः । भृद्वीकापाकः पुनरन्यादृशो वक्ष्यते । अनिष्ठुरे सुकुमारव्यवहारो लोके दृष्टः । मण्डलीकृत्येत्यादौ प्रथमपादे मण्डेति, कृत्येति, बर्हेति अत्र संयोगत्रयम् । द्वितीयपादे ण्ठेति, र्मेति च संयोगद्वयमुपन्यस्य गीतिदीर्घस्वरनिवेशो रूपान्तरमादाय विशेषशोभाहेतुः । तृतीयपादे केति न इति प्रनृत्यन्तीति च दीर्घविसर्गसंयोगा इति व्यन्तरम् । चतुर्थपादे दीर्घस्वरा एवान्तरान्तरेति सैव वासना । ननु अनिष्ठुराक्षरमयत्वं सुकुमारतेति वक्तव्ये प्रायशब्दः केन प्रयोजनेनेत्यत आह—अत्रेति । न चायमर्थगुणः स हि वाक्यार्थे धर्मिणि निरूप्यते । अयं तु पदसमुदाय इति युक्तं शब्दगुणेषु परिंगणनम् । संमितत्वमन्यथा भविष्यति ॥