यदुज्ज्वलत्वमिति । किं पुनरिदमुज्ज्वलत्वं नाम । केचिदाहुरनुप्रासबहुत्वमिति, तदसत्—‘तस्याः सुस्राव नेत्राभ्यां वारि प्रणयकोपजम् । कुशेशयपलाशाभ्यामवश्यायजलं यथा ॥’ इत्यादावनुप्रासबहुलता संभवति । एवंविधं हि पुराणच्छायमामनन्ति । कान्तिविपर्ययः पुराणी छाया । यथा—‘व्रजति गगनं भल्लातक्या दलेन सहोपमाम्’ इति । अत एवाह—‘पुराणचित्रस्थानीयं तेन वन्ध्यं कवेर्वचः’ इति । तस्मादप्रहतपदैरारम्भः संदर्भस्यैव कान्तिः । तद्यथा—कुसुमस्य धनुरिति प्रहतम् । कौसुममित्यप्रहतम् । जलनिधाविति प्रहतम् । अधिजलधीत्यप्रहतम् । गुरुत्वमिति प्रहतम् । गौरवमित्यप्रहतमित्यादि । अत एव प्रहतशङ्का । चमत्कारित्वं तु सहृदाह्लादकत्वमस्ति हि तुल्येऽपि वाचकत्वे पदानां कश्चिदवान्तरो विशेषो यमधिकृत्य किंचिदेव प्रयुञ्जते महाकवयो न तु सर्वम् । यथा—पल्लव इति वक्तव्ये किसलयमिति । स्त्रीति वक्तव्ये कान्तेति । कमलमिति वक्तव्ये राजीवमित्यादि । एतदेव महाकविभिरुपेयते । ‘कत्ते मणाम इच्चं सच्चं कविए समं समग्गेसु ।... सीमठेउण मुस्मितम्मि सच्चण वञ्चेअ ॥’ कान्तवर्णानुप्रासोऽपि कान्त एव भवतीति मत्वानुप्रासोत्कटमुदाहरति—निरानन्द इति । अस्ति कुन्दे मधु परं न कमल-057 सजातीयमित्यासक्तो नानन्दमलभत । कुन्दस्येति प्रहतम्, कौन्दमित्यप्रहतम् । बालत्वे बकुलकुसुमानां न मधुप्रादुर्भाव इति एतत्काले रतिं न प्राप्तवानिति विधुर इत्यनेन व्यज्यते । कालान्तरेऽपि साले मधुनोऽसंभवादालम्बः प्रत्याशामात्रबन्धोऽपि न तस्यासीत् । आमोदप्रकर्षादन्तः क्षणं निपत्य रसमनासादयंल्लवङ्गमनुसरतीति लवमित्यनेन ध्वन्यते । एवमुत्तरार्धेऽपि पदस्वरसो गवेषणीयः । उक्तमेव विशेषममिसंधाय व्याचष्टे—अत्रेति । छायौज्ज्वल्यं कान्तिरित्येकार्थतया लोके प्रसिद्धं तदिह यथा शब्देषु संगच्छते तथा पूर्वाचार्यप्रसिद्ध्या विवेचनीयमित्यभिप्रायः ॥