विकटेति । विकटैरक्षरैर्बन्धो यस्य तस्य भावस्तत्त्वम् । अस्ति तावन्नृत्यन्तीव पदानीति सहृदयानां क्वचिदर्थे व्यवहारः । स च न निर्विषयो नाप्यस्य विशेष इति तत्प्रमाणकमेव गुणान्तरमवस्थितमिति कश्चिव्द्याचष्टे । तथा तु न कथंचित्त्स्वरूपमुद्भिद्य दर्शितं भवति । अन्ये तु विसर्गानुप्रासादिग्रन्थिलत्वमनेनाभिमतमित्याहुः । तदपि न । और्जित्याबहिर्भावप्रसङ्गात् । तस्मादिदमत्र वाच्यम्—विकटानि विशालानि । प्रभूतानीति यावत् । तथाभूतान्यक्षराणि दीर्घानुस्वारादिरूपाणि सहृदयसंवेदनीयानि । अत एव नृत्यतुल्यता । यथा हि—नृत्येङ्गानामङ्गुल्यादीनामाकुन्चनप्रसारणक्रमेण रञ्जकत्वं तथात्रापि । तथाहि—आरोहतीत्यादौ प्रथमपादे आकारोकाराभ्यां प्रसारः । हत्यवेति संकोचः । नीरुह इतीकारविसर्गाभ्यां प्रसरणम् । नगैः स्पर्धत इति विसर्गसंध्यक्षरैर्विकाशः । द्वितीयपादेऽपि प्रसारणेनोपक्रम्यत इति नैव निर्वहणमन्तरान्तरवरोहक्रमो भवति । न चात्र यतीनां संनिवेशोऽभिमतः । मारुतवशं यात इत्यनेनोन्मादरोगगृहीत इति शब्दमूलानुस्वान-058 (सार)बलेनावगम्यते । उन्मादगृहीतोऽपि वृक्षारोहणादिकमसमञ्जसमव्यवस्थितं च करोति । वन इत्यनेन यत्र सर्वथैव प्रतीकारासंभव इति निरङ्कुशोन्मादचेष्टितमेवोपबृंहयति । नगैः स्पर्धते पर्वतोच्छ्रायमनुकरोतीति दूरप्रसृत उन्मादः । खं व्यालेढीत्यत्रापि तथैवाभिप्रायः । किं तद्यदिति न शक्यंते गणयितु मुन्मादचेष्टितानीति प्रकाशन्तेत्येति ग्रन्थिलाविच्छेदात् । प्रसारणस्य पर्यवसानं श्वेत्यनेन प्रविशतीतिसंकोचः । अत एव परस्मैपदयोर्निरन्तरमावापः कान्तिविशेषकरत्वादुपादेय एव भवतीति ॥