ओज इति । वैपुल्यवृत्तैर्बहुशब्दस्येयसुनि भूय इति रूपम् । तथा च समासस्य भूयस्त्वं वैपुल्यविकटत्वमिति यावत् । न चैवं गौडीया रीतिरेवेयमिति वाच्यम् । क्वचित्समासभूयस्तामात्रस्यैवौचितीवशेन विशेषशोभावहत्वात् । यथा—‘वाद्यन्ति दिग्गजगण्डकषणैर्भग्नस्रस्ता’ इति । न च समासाभावो नोचितः । नह्येक एव समासो रूपभेदमादाय गुणत्वमनलंकारत्वं च प्रयोजयतीति किमनुपपन्नम् । एवं प्रकृतोदाहरणेऽपि । तथा हि—परिणताः परिणामं गताः । बहूनां कल्पानां ब्रह्माण इति चतुर्णां पदार्थानां पिण्डत्वे चत्वारिपदानि समबहुव्रीहिरूढिभिर्भुजगरज्जुभिरिति ग्रन्थिदृढताबोधनाय रूपकम् । अत एव निवीत्युपसर्गस्तात्पर्यवान् । सद्यो विरचितनुतीत्यनेन कपालानामसाधारणो व्यापारः । बन्धो हि ब्राह्मरूपस्ताल्वादिकमन्तरेण न निष्पद्यते । जीवनानन्तरमेव त्रासावेशात्स्तुतिरूप एव व्रह्म-060 घोषं उदचरदिति भगवतस्त्रैलोक्यग्रहे निरङ्कुशप्रभावः सद्यःपदेन सूच्यते । अथवा चेदागमानामात्मलाभानन्तरमेव परमेश्वरस्तुतिरूपतात्पर्यावसानमिति सर्वस्या अपि श्रुतेः परमेश्वरप्रवणत्वमनन्यसाधारणभक्तिप्रह्वतां च कविरभिप्रैति । पुरारेरित्यनेन संहारिरूपता भगवतः प्रकृतपोषानुगुणा प्रकाशिता ॥