और्जित्यमिति । ऊर्जितो महाप्राणस्तस्य भाव और्जित्यं तत्र संदर्भस्य महाप्रांणता गाढत्वमन्तरान्तराविलम्बितनयद्भिः प्रयोगैः कुण्डिलत्वम् । गुणसामान्यलक्षणादतिप्रसङ्गो नास्ति । तथा हि—प्रकृतोदाहरणे प्रथमपादे विच्छिन्नभुग्न इत्यत्र तालव्यद्वयम् । कण्ठ्यदन्त्यसंयोगौ प्रस्फुटोन्मिश्रौ । अन्ये मृदवः । द्वितीयपादे औष्ठ्योपध्मानीयतालव्यचतुष्कसंयोगाः प्रस्फुटाः । स्वरव्यञ्जनमध्ये विसर्गपाठ उभयसंज्ञाभिप्रायेणेति दुर्गसिंहः । तेन तदादेशस्यापि व्यञ्जनत्वम् । अन्ये मृदवः तृतीयपादे दन्त्योष्ठ्यदन्त्यकण्ठ्यसंयोगा उन्मिश्राः । अन्ये मृदवः । चतुर्थपादे रेफान्तसंयोगा भृदवो य इति न कापि कठोरता प्रतिभासते । तथा च—प्रथमतृतीयाभ्यामत्र द्वितीयचतुर्थयोर्गाढत्वम् । तथा—‘हस्ते लीलाकमलमलकं बालकुन्दानुविद्धम्-’ इत्यादेरगाढप्रथमतृतीययोरप्यस्ति धारणी महाप्राणता व्यक्तेत्याह—अत्रेति ॥