प्रेय इति । परप्रियाख्यानं चाटूक्तिस्तत्र यद्विधीयते स प्रेयो नाम गुणः किं तु क्रियत इत्याह—प्रियतराख्यानमिति । प्रत्ययांशे तात्पर्यं लोके साधारण एव प्रिय इत्युच्यमाने यस्तत्रासाधारणः प्रकर्षोऽवसीयते स इत्यर्थो भवति । एतेन लक्षणपदे ईयसुन् व्याख्यातः । उक्तिखण्डैरुपचितोऽर्थः सन्नसन्वा भवतु कविप्रतिकृष्टा सूक्तिरेक एव त्रिभुवने भूयसीनामपामधिष्टानम् । एवं भवानपि तत्स्थानीयस्य सौजन्यस्येति प्रतीयते । वुधप्रियेति बहुव्रीहितत्पुरुषाभ्यामर्थद्वयमुपात्तम् । सूक्ष्मगुणप्रतिबिम्बभासितया यावदभिमतदायितया च प्रीतिध्वनितया च प्रकर्षमर्पयति—गुणप्राकारेति । यथा प्राकारे उपर्युपरि शिलादीनामवस्थितिरेवमहमहमिकया त्वयि गुणानाम् । अथवा यथा प्राकारः कलत्रावेक्षणस्थानमेवं भवानपि गुणानामेव प्रोच्यते । धर्मद्रुमप्रारोहेति । प्रारोहः प्ररोहोऽङ्कुरः । तेनातिजरतो भग्नानेकविक्रमादित्यादिशाखस्य धर्मतरोस्त्वमग्रिमः संतानोऽवलम्बः । यदि वाधोमुखी लम्बमानलता प्ररोहः । तथा च धर्मतरोरुपरि ब्रह्मलोकादिबद्धविस्तारस्य भगवद्रूपः प्रारोहो भूपृष्ठमधितिष्टतीति कोऽपि प्रीतौ प्रकर्षः । प्रतिपन्नवत्सलेति । उपकर्तव्यतया प्रतिपन्नः स्वीकृतस्तत्र वत्सलो झटिति स्नेहार्द्रान्तःकरणस्तेनाङ्गीकृतभङ्गभीरुतामात्रेण पुरुहूतादिवन्नापि श्लेषाविश्लेषान्विततया बलिकर्णादिवत्किं तु भवान् सिन्धुरिव वाञ्छितादिकमुपकारं करोतीति समानं पूर्वेण । महात्यागिन्निति । त्यागिनामपि यः पूज्यः स महात्यागी तेन नूनं दधीचिप्रभृतयो विश्राणितार्था अपि न तव तुल्यतामारोढुमीशत इति पूर्ववत् । विवेकाश्रय इति । यथाकर्तव्यताज्ञानं विवेकस्तस्याश्रयो विश्रान्तिस्थानं यदि त्वं मूलस्तम्भो नाभूस्तदा कमाश्रित्य विवेकप्रासादः पदमारोपयेदित्यादिकं स्वयमूहनीयमिति तदेतत्सर्वं सूचयन्नाह—प्रियार्थानां पदानामिति । प्रियार्थानां प्रीतिप्रकर्षार्थानाम् ॥