व्युत्पत्तिरिति । विशिष्टा उत्पत्तिर्व्युत्पत्तिः । सुबन्तानां तिङन्तानां च बहूनामपि चकारादिमन्तरेण घटनासौष्टवार्पकतया चमत्कारकारित्वमित्यर्थः । ‘आक्रोशे नञ्यनिः’ । किमर्थभिदमाशास्यत इत्यत आह—जीवतोऽवमान इति । जीवतोऽवमाननं माभून्मरणमपि तदपेक्षया वरमित्यर्थः । आयुःकर्मवशात्तथाभूतोऽपि जीविष्यतीति यद्रि तदाऽजननिरनुत्पत्तिरेव भूयात् । कुत इत्यत आह—किमिति । जनिनेति पुंलिङ्गनिर्देशश्चिन्त्यः इकः स्त्रीप्रकरणे विधानात् । जनिरुत्पत्तिरिति साहचर्याच्च । कस्येदं सर्वमाशास्यत इत्यत आह—यस्त्वामेवेति । त्वदन्यदेवताप्रवणस्य जन्मादिकं विफलमिति वदतः कोऽपि भगवतीविषये भक्तिप्रकर्षोऽवसीयते । अन्ये तु व्याचक्षते कवेः पदपरिचयान्तरी व्युत्पत्तिः । पदं च सुप्तिङन्ततया द्विविधम् । तयोरेकमुभयं वा यत्र निवेश्यमानं व्युत्पत्तिमभिव्यनक्ति तत्र सौशब्द्यमिति लक्षणार्थः । तथा हि—अजीवनिरिति सोपाधिसिद्धकृदन्तं जीवितमुपन्यस्य तदेव जीवस्य जीवत इति निरुपाधिसिद्धसाध्यार्थाभिधायिकृदन्तमुपन्यस्तवान् । मातरवमेति मातृत्वमुभयथोत्प्रेक्षितवान् । द्वितीयपादे जनिजीवमिवोपक्षिप्य जनिना जन्मेति तमेव प्रकारद्वयेनोपात्तवान् । एकैकधातुप्रपञ्चानां सुबन्तानां दुर्घटमेकसंदर्भप्रवेशं तत्तदुचितक्रियासंगमेन विहितवानिति सुबन्तव्युत्पत्तिरिति दिक् । अवमेति अस्त्वित्यनुषज्यते । वृथादिवा पूर्वेणापि संबध्यते । अथोत्तरार्धे तिङन्तव्युत्पत्तिः । तत्र पूर्वप्रकारभेदो न घटते । अतः साभिप्रायाणामेवोत्प्रेक्षणं सा वाच्या । तथा हि—वन्दत इति जायमानमात्राभिवाद्यतया त्रिभुवनमातृता । यजत इति समस्तदेवतारुपत्वम् । उपैतीति सर्वोपगम्यतया जगच्छरण्यत्वम् । आलोकत इति विश्ववर्ति यावन्मनोहरत्वम् । स्तौतीति समस्ताभिमतदायिता । मन्यत इति निखिलज्ञेयस्वरूपता । मनुत इत्यवधारणीयतया तत्त्वात्मकता । अध्येतीति कान्तारादिस्मर्तव्यतया दुर्गादिभेदेन प्रपञ्च्यमानत्वम् । ध्यायतीति निदिध्यासनविषयतया प्रत्यग्ज्योतीरूपतेति परापरभेदभिन्ना भगवती स्तुता भवति । मन्यते मनुते इति यथा सामान्यविशेषाभिधायिनौ तथाध्येति ध्यायतीत्यपि । तिङन्तानां च दुर्घटोऽपि परस्पर-063 मन्वयः केनापि प्रकारेण घटित इति पूर्ववद्वोद्धव्यः । तदेतदाह—अत्रेत्यादिपदमुभाभ्यां संबध्यते । तेन जीवितवर्गो जनिवर्गश्चाभिमतः । मतिः सकृदेवावृत्त इति नोक्तः भूयसा हि लोके व्यपदेशो दृश्यत इति ॥