यावदिति । यावन्ति वर्णानि विना प्रकृतमनुसर्तुमेव न शक्यन्ते तावन्मात्रमयत्वं वाक्यस्य संमितत्वम् । अतः संक्षेपाद्भेदः । कवेः शक्तिव्युत्पत्तिभ्यामसत्यपि पल्लवे कदाचिद्धटनालावण्यमुन्मिषत्येव । यथा पूर्वमुदाहृतम्—‘का त्वं शुभे कस्य परिग्रहो वा’ इत्यादि । अर्थव्यक्तिसंकरशङ्काप्यत एव निराकृता । 'अस्त्युत्तरस्यां दिशि देवतात्मा’ इति केचिदुदाहरन्ति तदयुक्तम् । अनेन नामपदयोः पल्लवरूपत्वात्संमितत्वाभावे कथमाभासत्वं भवतीति विस्भृतव्यमिचारिगुणप्रकरणस्य भाषितमुपेक्षणीयम् । केचिदिति सर्वनाम्न एवाभिमतकविविशेषे पर्य-068 वसानं सामर्थ्येन संभवतीति नाध्याहारशङ्का । शक्ता इत्यादिक्रियापि सामर्थ्येनावसीयते तदेतत्सर्वमभिप्रेत्याह—तुलाविधृतवदिति ॥